व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑। आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥५॥
vayaṁ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ | āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ ||
व॒यम्। ते। ते॒। इ॒न्द्र॒। ये। च॒। नरः॑। शर्धः॑। ज॒ज्ञा॒नाः। या॒ताः। च॒। रथाः॑। आ। अ॒स्मान्। ज॒ग॒म्या॒त्। अ॒हि॒ऽशु॒ष्म॒। सत्वा॑। भगः॑। न। हव्यः॑। प्र॒ऽभृ॒थेषु॑। चारुः॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे अहिशुष्मेन्द्र ! ये ते शर्धो जज्ञाना याता नरो रथाश्च सन्ति तेऽस्मान् प्राप्नुवन्तु। यो भगो न प्रभृथेषु हव्यश्चारुः सत्वा भवानस्माना जगम्यात्तं भवन्तं वयं च प्राप्नुयाम ॥५॥